|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.38. अध्यायः 038
Mahabharata - Karna Parva - Chapter Topics
शल्यकर्णयोर्वाक्कलहः॥ 1 ॥ दुर्योधनेन तयोः सान्त्वनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
कर्ण उवाच। 8-38-0x(4937)(56757)
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
उन्यमानं मया सम्यक्त्वमेकाग्रमनाः शृणु॥ 8-38-1(56758)
ब्राह्मणः किल नो गेहमध्यगच्छत्पुराऽतिथिः।
आचारं तत्र सम्प्रेक्ष्य प्रीतो वचनमब्रवीत्॥ 8-38-2(56759)
मया हिमवतः शृङ्गमेकेनाध्युषितं चिरम्।
दृष्टाश्च बहवो देशा नानाधर्मसमावृताः॥ 8-38-3(56760)
न च केन च धर्मेण विरुध्यन्ते प्रजा इमाः।
सर्वाश्चाप्याचरन्धर्मं यदुक्तं वेदपारगैः॥ 8-38-4(56761)
अटता तु मया देशान्नानाधर्मसमाकुलान्।
आगच्छता महाराज बाह्लीकेषु निशामितम्॥ 8-38-5(56762)
तत्र वै ब्राह्मणो भूत्वा पुनर्भवति क्षत्रियः।
वैश्यः शूद्रश्च बाह्लीकस्ततो भवति नापितः॥ 8-38-6(56763)
नापितश्च ततो भूत्वा पुनर्भवति ब्राह्मणः।
द्विजो भूत्वा च तत्रैव पुनर्दासोऽभिजायते॥ 8-38-7(56764)
भवन्त्येककुले विप्राः शिष्टा ये कामचारिणः।
गान्धारा मद्रकाश्चैव बाह्लीकाश्चाप्यतेजसः॥ 8-38-8(56765)
एतन्मया श्रुतं तत्र धर्मसङ्करकारकम्।
कृत्स्नामटित्वा पृथिवीं बाह्लीकेषु विपर्ययः॥ 8-38-9(56766)
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
यदप्यन्योऽब्रवीद्वाक्यं बाह्लीकानां विकुत्सितं॥ 8-38-10(56767)
आनीयेहाक्षता काचिदारट्टात्किल दस्युभिः।
अधर्मतश्चोपयाता सा तानभ्यशपत्ततः॥ 8-38-11(56768)
बालां बन्धुमतीं यन्मामधर्मेणोपगच्छथ।
तस्मात्कुमार्यः स्वैरिण्यो भविष्यन्ति कुलेषु वः॥ 8-38-12(56769)
न चैवास्मात्प्रमोक्षध्वं घोराच्छापान्नराधमाः।
तस्मात्तेषां भागहरः कथं धर्मान्वदिष्यसि॥ 8-38-13(56770)
कुरवः सहपाञ्चालाः साल्वा मात्स्याः सनैमिशाः।
कोसलाः काशपौण्ड्राश्च कालिङ्गा मागधास्तथा॥ 8-38-14(56771)
चेदयश्च महाभागा धर्मं जानन्ति शाश्वतम्।
नानादेशेष्वसन्तश्च प्रायो बाह्यालयानृते॥ 8-38-15(56772)
आमत्स्येभ्यः कुरुपाञ्चालसाल्वा
आनैमिशाच्चेदयो ये विशिष्टाः।
धर्मं पुराणमुपजीवन्ति सन्तो
मद्रानृते पाञ्चनदांश्च जिह्मान्॥ 8-38-16(56773)
एवं विद्वान्धर्मकथासु राजं--
स्तूष्णींभूतः शल्य भवेः सदा त्वम्।
त्वं तस्य गोप्ता च जनस्य राजा
षड्भागहर्ता शुभदुष्कृतस्य॥ 8-38-17(56774)
अथवा दुष्कृतस्य त्वं हर्ता तेषामरक्षिता।
रक्षिता पुण्यभाग्राजा प्रजानां त्वं ह्यपुण्यभाक्॥ 8-38-18(56775)
पूज्यमाने पुरा धर्मे सर्वदेशेषु शाश्वते।
धर्मं पाञ्चनदं दृष्ट्वा धिगित्याह पितामहः॥ 8-38-19(56776)
व्रात्यानां दाशकीयानां कृतेऽप्यशुभकर्मणाम्।
ब्रह्मणा निन्दितान्धर्मान्कश्चित्सिद्धात्मकोऽब्रवीत्॥ 8-38-20(56777)
इति पाञ्चनदं धर्मवमेने पितामहः।
स्वधर्मस्थेषु वर्णेषु सोऽप्येतान्नाभ्यपूजयत्॥ 8-38-21(56778)
इति शल्य विजानीहि हन्त भूयो ब्रवीमि ते।
कल्माषपादः सरसि निम़ज्जन्राक्षसोऽब्रवीत्॥ 8-38-22(56779)
क्षत्रियस्य मलं भैक्ष्यं ब्राह्मणस्याश्रुतं मलम्।
मलं पृथिव्या बाह्लीकाः स्त्रीणां कौतूहलं मलम्॥ 8-38-23(56780)
निमज्जमानमुद्धृत्य कश्चिद्राजा निशाचरम्।
अपृच्छत्तेन चाख्यातं तच्छृणुष्व नराधिप॥ 8-38-24(56781)
मानुषाणां मलं म्लेच्छा म्लेच्छानां मुष्टिका मलम्।
मुष्टिकानां मलं षण्ढाः षण्ढानां राजयाजकाः॥ 8-38-25(56782)
राजयाजकयाज्यानां मद्रकाणां च यन्मलम्।
तद्भवेद्वै तव मलं यद्यस्मान्न विमुञ्चसि॥ 8-38-26(56783)
इति रक्षोपसृष्टेषु विषवीर्यहतेषु च।
विद्वद्भिर्भेषजं दृष्टं संसिद्धवचनोत्तरम्॥ 8-38-27(56784)
ब्राहयाः पञ्चालाः कौरवेयास्तु धर्म्याः
सत्या मत्स्याः शूरसेनाश्च याज्याः।
प्राच्या दासा वृषला दाक्षिणात्याः
स्तेना बाह्लीकाः सङ्कार वै सुराष्ट्राः॥ 8-38-28(56785)
कृतघ्नता परवित्तापहारो
मद्यपानं गुरुदारावमर्दः।
वाक्पारुष्यं गोवधो रात्रिचर्या
बहिर्गेहं परवस्त्रोपभोगः॥ 8-38-29(56786)
येषां धर्मस्तान्प्रति नास्त्यधर्मो
ह्यारट्टजान्पाञ्चनदान्धिगस्तु।
आपाञ्चालाः कुरवो नैमिशाश्च
मत्स्याश्चैवाप्यनुजानन्ति धर्मम्।
अथोदीच्याश्चोदयो भागधाश्च
शिष्टान्धर्मानुपजीवन्ति वृद्धाः॥ 8-38-30(56787)
प्राचीं दिशं श्रिता देवा जातवेदःपुरोगमाः।
दक्षिणा पितृभिर्गुप्ता यमेन शुभकर्मणा॥ 8-38-31(56788)
प्रतीचीं वरुणः पाति पालयन्नसुरान्बहून्।
उदीचीं भगवान्सोम ब्रह्मा च ब्राह्मणैः सह॥ 8-38-32(56789)
रक्षःपिशाचान्हिमवान्गुह्यकान्गन्धमादनः।
ध्रुवं सर्वाणि भूतानि विष्णुः पाति सुरोत्तमः॥ 8-38-33(56790)
इङ्गित5आश्च मगधाः प्रेक्षितज्ञाश्च कोसलाः।
अर्धोक्ताः कुरुपाञ्चालाः सर्वोक्ता दाक्षिणापथाः॥ 8-38-34(56791)
पार्वतीयाश्च विषया यथैव गिरयस्तथा।
सर्वज्ञा यवना राजञ्शूराश्चैव विशेषतः।
म्लेच्छाः स्वसंज्ञानियता नानुक्तमितरे जनाः॥ 8-38-35(56792)
प्रतिरब्धास्तु बाह्लीका न च केचन मद्रकाः।
स त्वमेतादृशः शल्य नोत्तरं वक्तुमर्हसि॥ 8-38-36(56793)
एवं ज्ञात्वा जोषमास्स्व प्रतीपं
मा स्म क्रुद्धः पापभृतां वरिष्ठ।
पूर्वं हत्वा त्वां सपुत्रं बलैश्च
पश्चाद्धंस्ये वासुदेवार्जुनौ च॥ 8-38-37(56794)
शल्य उवाच। 8-38-38x(4938)
आतुराणां परित्यागः स्वदारसुतविक्रयः।
अङ्गे प्रवर्तते कर्ण येषामधिपतिर्भवान्॥ 8-38-38(56795)
रथातिरथसङ्ख्यायां यत्त्वां भीष्मस्तदाब्रवीत्।
तान्विदित्वाऽत्मनो दोषान्निर्मन्युर्भव मा क्रुधः॥ 8-38-39(56796)
सर्वत्र ब्राह्मणाः सन्ति सन्ति सर्वत्र क्षत्रियाः।
वैश्याः शूद्रास्तथा कर्ण स्त्रियः साध्व्यश्च सुव्रताः॥ 8-38-40(56797)
रमन्ते चोपहासेन पुरुषाः पुरुषैः सह।
अन्योन्येन रताः क्षीबा देशेदेशे च मैथुनम्॥ 8-38-41(56798)
परवाच्येषु निपुणः सर्वो भवति सर्वदा।
आत्मवाच्यं न जानीते जानन्नपि च मुह्यति॥ 8-38-42(56799)
सर्वत्र सन्ति राजनः स्वंस्वं धर्ममनुव्रताः।
दुर्मनुष्यान्निगृह्णन्ति सन्ति सर्वत्र धार्मिकाः॥ 8-38-43(56800)
न कर्ण देशसामान्यात्सर्वः पापं निषेवते।
यादृशाः स्वस्वभावेन देशांस्तांस्तादृशान्विदुः॥ 8-38-44(56801)
सञ्जय उवाच। 8-38-45x(4939)
तततो दुर्योधनो राजा कर्णशल्याववारयत्।
सखिभावेन राधेयं शल्यं सौजन्यकेन च॥ 8-38-45(56802)
ततो निवारितः कर्णो धार्तराष्ट्रेण मारिष।
प्हहस्य तत्र राजेन्द्रं यादि शल्येत्यचोदयत्॥ ॥ 8-38-46(56803)
इति श्रीमन्महाभारते कर्णपर्वणि अष्टत्रिंशोऽध्यायः॥ 38 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-38-5 निशामिर्त श्रुतम्॥ 8-38-6 ब्राह्मणो भूत्केत्यादि तज्जातीयकर्माचरणनिवन्धनम्॥ 8-38-8 विप्राः प्रसृष्टा इति पाठे कुले एकएव विप्रो भवत्यन्ये भ्रातरः प्रसृष्टाः सङ्कीर्णिक्रिया इत्यर्थः॥ 8-38-9 तत्र बाह्लीकेषु। धर्मसङ्करकारको विपर्ययः श्रुत इति लिङ्गं विपरिणेयम्। विपर्ययो विहितवैपरीत्यम्॥ 8-38-20 कृते कृतयुगे॥ 8-38-21 नाभ्यपूजयत् न प्रशंसितवान्॥ 8-38-25 म्लेच्छाः पापरता धर्माधर्मविचारहीनाः। म्लेच्छः पापरते जातिभेदे स्यादपभाषणे इति विश्वः। षंढा वर्षवराः॥ 8-38-27 रक्षोपसृष्टेषु रक्षसा उपद्रुतेषु॥ 8-38-28 प्राच्या दासाः शूद्रधर्माणः। दाशा इति पाठे मत्स्यजीविनः। वृषं धर्मं लान्ति आददते ते वृषलाः धर्मसङ्ग्रहपराः धर्मद्रोहिण इति वा॥ 8-38-29 बहिर्गेहं रात्रिचर्या प्रच्छन्नं चौर्यपारदार्यादि॥ 8-38-31 प्राचीमित्यत्र जातवेद इत्यनेनाम्नेयीसहिता प्राची देवानामाश्रया दक्षिणा पितॄणां तत्रैव श्राद्धादिधर्मो दृश्यते॥ 8-38-32 एवं प्रतीचीं वरुणः उदीचीं सोम इति कुबेरेशानयोर्ग्रहणम्। परिशेषान्नैर्ऋत्यां वायव्यां च बाह्लीकाश्रयायां नैर्ऋतास्त्वादृशा वातूलाश्च सन्तीत्यर्थः॥ 8-38-33 तथा रक्षःपिशाचाश्च हिमवन्तं नगोत्तमम्। गुह्यकाश्च महाराज पर्वतं गन्धमादनम् इति झ पाठः। एवमपि सबाह्लीकान्सनैर्ऋतान् देशान् विष्णुः पाति पर्जन्यवत् न देशान्तरेष्विव बाह्लीकेषु विशेषतो देवतानुग्रहो दृश्यत इत्यभिप्रायः॥ 8-38-34 अतएव तेषां मौढ्यं वर्णयति इङ्गितज्ञाश्चति। अर्धोक्ताः कुरुपाञ्चालाः साल्वाः कृत्स्नानुशासनाः इति झ. पाठः॥ 8-38-35 विषमाः दुःखसाध्याः। सर्वं जानन्तोऽपि यवना म्लेच्छाश्च स्वसंज्ञायां स्वीयैः कृतो यो धर्मसंकेतस्तत्रैव नियताः। वैदिकं धर्मं न मानयन्तीत्यर्थः। इतरे त्वनुक्तं हितं नावबुध्यन्ते॥ 8-38-36 प्रतिरथा इतिपाठे हितवादिति प्रतिकूलाः। गुरुद्रोहिण इत्यर्थः। तादृशश्च त्वं हितोपदेष्टारं मां निन्दसीत्यर्थः॥ 8-38-38 अष्टत्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|